|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.244. अध्यायः 244
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति मतभेदयुगधर्मभेदादिप्रतिपादकव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-244-0x(6237)(75301)
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते।
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिद्ध्यति॥ 12-244-1(75302)
तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये।
किंतु कर्मस्वभावोऽयं ज्ञानं कर्मेति वा पुनः॥ 12-244-2(75303)
तत्र वेदविवित्सायां ज्ञानं चेत्पुरुषं प्रति।
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छॄणु॥ 12-244-3(75304)
पौरुषं कारणं केचिदाहुः कर्मसु मानवाः।
दैवमेके प्रशंसन्ति स्वभावमपरे जनाः॥ 12-244-4(75305)
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः।
त्रयमेतत्पृथग्भूतमविवेकं तु केचन॥ 12-244-5(75306)
एतदेवं च नैवं न च चोभे नानुभे तथा।
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः॥ 12-244-6(75307)
त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः।
तपस्विनः प्रशान्ताश्च सत्वस्थाश्च कृते युगे॥ 12-244-7(75308)
अपृथग्दर्शनाः सर्वे ऋक्सामसु यजुःषु च।
कामद्वषौ पृथग्दृष्ट्वा तपः कृत उपासते॥ 12-244-8(75309)
तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति॥ 12-244-9(75310)
तपसा तदवाप्नोति यद्भूतं सृजते जगत्।
तद्भूतश्च ततः सर्वभूतानां भवति प्रभुः॥ 12-244-10(75311)
तदुक्तं वेदवादेषु गहनं वेददर्शिभिः।
वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते॥ 12-244-11(75312)
आरम्भयज्ञाः क्षव्राश्च हविर्यज्ञा विशः स्मृताः।
परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः॥ 12-244-12(75313)
परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत्।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते॥ 12-244-13(75314)
त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे॥ 12-244-14(75315)
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा।
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः किल॥ 12-244-15(75316)
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः।
गवां भूमेश्च ये चापामोषधीनां च ये रसाः॥ 12-244-16(75317)
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽऽश्रमाः।
विक्रियन्ते स्वधर्माश्च स्थावराणि चराणि च॥ 12-244-17(75318)
यथा सर्वाणि भूतानि वृष्टथा तृप्यन्ति प्रावृषि।
सृजन्ते सर्वतोऽङ्गानि तथा वेदा युगेयुगे॥ 12-244-18(75319)
विहितं कालनानात्वमनादिनिधनं च यत्।
कीर्तितं यत्पुरस्तात्ते यतः संयान्ति च प्रजाः॥ 12-244-19(75320)
यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः।
स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः॥ 12-244-20(75321)
सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रियाफलम्।
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि॥ ॥ 12-244-21(75322)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः॥ 244॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-244-5 इति क्रमेण मीमांसकस्य दैवज्ञस्य शून्यवादिलोकायतयोश्च मतान्युपन्यस्यैतेषांष। विकल्पसमुच्चयावाह पौरुषमिति। पौरुषं दैवं न कर्म दृष्टादृष्टयत्नः। स्वभावमनुसृत्य कर्मकालौ फलदावित्यर्थः। अविवेकं समुच्चयम्। पृथग्भूतमेकमेव प्रधानं नत्वितरावित्यर्थः॥ 12-244-6 आर्हतमत आह एतदिति। एवमेतन्न चाप्येवमुभे एवं नचाप्युभे इति ध. पाठः॥ 12-244-10 सत्यं तपश्च भूतानां सर्वेषां भवति प्रभुरिति थ. पाठः। स, तद्रूपश्च सर्वेषां भूतानां भवति प्रभुरिति ध. पाठः॥ 12-244-21 धर्मः काल इति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|